________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमत्सुन्दरकाण्डे व्याख्येयानि व्याख्यास (स्य) न्ते । राघवस्यानपाइत्या(यिन्या): प्रभाया इव भास्वतः । रेजुस्संभोगशृङ्गारा विप्रलम्भरसात्मकाः ॥
1273
अथ श्रीमत्सुन्दरकाण्डे · व्याख्येयानि व्याख्यास्स (स्य) न्ते तत इत्या - दिना । पूर्वस्मिन् काण्डे मनसा गमनं कृतमित्युक्तम् । [ इत्यमरः ] ( काण्डेऽस्मिन् कायेनापि ) गन्तुमैच्छदित्याह तत इत्यादिना । अत्र गन्तुमिति पदमध्याहर्तव्यम् । शत्रुकर्शनो हनूमान् रावणनीतायाः रावणेन हृतायाः सीतायाः पदं निवासस्थानम् अन्वेष्टुं चारणाचरिते पथि सुरवर्त्मनि गन्तुमियेषेति योजना । शत्रुकर्शनः रिपुहन्ता चारणाचरित इति दुर्गसञ्चारे भयराहित्यं वक्तुं शत्रुकर्शन इति । निष्प्रतिद्वन्द्वं द्वन्द्वान्निष्क्रान्तं प्रतिबन्दिरहितमित्यर्थः ॥
End:
For Private and Personal Use Only
1
आदिकाव्यमिति । आर्षम् ऋषिर्वेदः तत्संबन्धि । वेदोपवृंहणमिति यावत् । पुरा अवतारात् पूर्वं पुत्रकाम इति ( आ ) रामाभिषेचनं श्रीरामाभिषेका[न]वधिकमित्यर्थः । श्रवणेनेति संप्रश्टण्वतामिति पाठः । विनायकाः विघ्नकारिणो भूतविशेषाः । आयुष्यमिति । सौभ्रातृकं सौभ्रातृकां (तं) सुखं सुखकरं भक्तचै (क्तये) ति । संहितायां संहितातुल्यत्वात् संहितेति व्यपदेशः । वेदमेतदिति । पुरावृत्तमितिहासं पठ(ठि)[यि]तॄन् प्रति मङ्गलमाशास्ते भद्रमिति । सर्वाधिकार माह व इति । पुत्राधिकार इत्यत आह प्रव्याहरतेति । व्याहार उक्तिर्लपितमित्यमरः । वि[प्र]ल(स्र)ब्धमिति सविशा (श्वा) समित्यर्थः । अतिकारुणिकतया महर्षिः रामायणपठनेन सर्वे कृतार्था भवन्त्विति मङ्गलमाशास्ते प्रदिशतु भगवान [वि]शेष पुंसां हरिरप ( पि) जन्मजराधिकां (तिगां) समृद्धिमिति श्रीपराशरोऽपि सर्वेषां समृद्धिं प्रदिशत्वित्याह । प्रव्याहत (हृति) फलमाह बलं विष्णोः प्रवर्धतामिति ॥