________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1582
A DESCRIPTIVE CATALOGUE OF Beginning:
ऐन्द्रश्रीमणिमौक्तिकावळिपरीरब्धव मुग्धद्युतिः मूर्तिर्नर्तनकीर्तनप्रणयनीयान्योन्यमात्मेशयोः । मुग्धेन्दुस्फटिकाभिराममकुटा सान्दस्मितोल्लासिनी श्रीशैलाग्रनिवासिनी भवतु मे भूत्यै जगन्मोहिनी ।। परिष्वक्तामीषत्पुळकितकपोलस्तनकटी गळन्नीवी देवीमुरसि कलयन् कोऽपि रसिकः । स्फुरद्गङ्गावर्त स्फुटजयविवर्त रतिपतेः स्खलद्भोगिनातं जयति जगति श्रीगिरिपतिः ।। श्रीशैलाग्रमहापीठनिवासकलितोत्सवाम् । त्रैलोक्यमातृकामीळे सुश्लोकां भ्रमराम्बिकाम् ।। अस्ति म(व)स्तु समस्ताग्रश्रुतिविस्तरसंमतम् । गङ्गालसज्जटाजूटं वन्दे पन्नगभूषणम् ॥ कलये हृदि कौसल्यामागधेयं महोदयम् । सीतया कलिताश्लेषं सानन्दं रघुनन्दनम् ।। प्रतापपटलावर्तभानुस्फुरितदिक्तटम् । कञ्चित्कपिवटुं वन्दे सिन्धोरुल्लङ्घने पटुम् ॥ तुष्टमिष्टफलामोदमोदकास्वादलीलया। इष्टसिद्धिकरं चारु करिराजमुखं नुमः ।। विपश्चिद्वदनाम्भोजविहरद्भूमरी खयम् । मुखे वसतु नो हस्तकृतपुस्तकलेखिनी ।।
सूत उवाचगङ्गातीराश्रमे रम्ये सिद्धचारणसेविते । नानापुष्पलताकीर्णे वने पुष्पफलोदये ।।
For Private and Personal Use Only