________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1579 This is ono of the Khaņdas of the Sankarasamhitã in the Skanda-Purana. _Contains the Upadesakanda in 85 Adhyayas.
विघ्नेश्वरं विश्ववन्द्यं विमलं ज्ञानबोधकम् । उपदेशस्य पूर्त्यर्थम् उमापुत्रं नमाम्यहम् ॥ ऋषयःअस्ति मेरोरुदग्भागे महान् कैलासपर्वतः । समीपतोऽण्डभित्तेश्च भवितेति समीरितम् ॥ किंरूपोऽयमृषिश्रेष्ठ किंप्रमाणः किमुच्छ्रयः । एतत्सर्व विशेषेण वक्तुमर्हसि तापस ॥ सूतःइति तेषां वचश्श्रुत्वा प्राह पौरााणकोत्तमः । शृणुधं ब्राह्मणास्सर्वे गुह्याद्गुह्यतरं परम् ।। आस्ति मेरोरुदद्भागे महान् कैलासपर्वतः । साम्बस्य सगणस्यायं सभक्तस्येन्दुमौलिनः ।। संवासो योजनानाञ्च विंशत्कोटिभिरावृतम् । औन्नत्यमेतद्दिगुणमस्य ज्ञेयं द्विजोत्तमाः ॥
इत्यादिमहापुराणे स्कान्दे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे प्रथमोऽध्यायः ॥
End:
षोडशानां च दानानां फलं कोटिगुणं लभेत् । पुत्रमित्रकलत्राद्यैर्भुक्ता भोगाननेकथा ॥ इह लोके परत्रापि फलसायुज्यमाप्नुयात् ।
For Private and Personal Use Only