SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. पराणिभिर्जगत्राणीं वाणीं वाणीं स्वसंपदः । प्रणुवामि चतुर्भागां चतुरर्थप्रदायिनीम् ॥ नारायणेन विदुषा कोलचल्मान्वयेन्दुना । काशीखण्डस्य विवृतिः क्रियते गुर्वनुग्रहात् || Acharya Shri Kailassagarsuri Gyanmandir तत्र भगवान् श्रीवेदव्या व्यासः काशीखण्डं प्रारिप्सुः प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय विघ्नेश्वरं स्मरति । तमिति । 1561 महेशानस्य महादेवस्य प्रियार्भकं प्रियपुत्रं करिगणेशानस्य गजश्रे ष्ठस्य आननं मुखं यस्य तं गजवक्त्रमित्यर्थः । अनामयं निर्दुष्टं प्रमथगणानामीशानमधिपतिं महेशानं निग्रहानुग्रहसमर्थ तं वरप्रसिद्धं विनेश्वरं मन्महे भजामः । अनन्तरं मुक्तिदां मुक्तिप्रदाय ( यि ) कां काशीं स्तौति भूयिष्ठेति ॥ End : 1 ततः कारणात् काशी तु कलिकालेन वर्जिता रहिता । स्कन्दः कुम्भसंभवं संबोधयन् काशीनामधेयान्याह वाराणसीति । हे द्विज । इतीति स्पष्टम् । तदिति । तत्तथाप्रसिद्धं काशिजं महद्रहस्यं तवाग्रे मया कथितम् । . श्रावयित्वेति । हे कलशज अतः काशीमाहात्म्यात्परमन्यत्किं शुश्रूषसि श्रोतुमिच्छसि । तद्वद || Colophon : इति श्रीमत्कोलचलमान्वयसुधाम्बुधि सुधाकरेण वेङ्कटनारायणेन विरचिते पदयोजनासमाख्याने काशीखण्डव्याख्याने काशीमहिमानुवर्णनं नाम त्रिंशोऽध्यायः ॥ लवङ्गाब्दे तु वैशाखे कृष्णपक्षाष्टमीगुरौ । काशीखण्डस्य टीकायां लिखितं पूर्णविंशत् ॥ For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy