SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1559 Beginning: तं मन्महे महेशानं महेशानप्रियार्भकम् । गणेशानं करिगणेशानाननमनामयम् ॥ भूयिष्ठाप्यनया च भूस्त्रिदिवतोऽत्युच्चैरधस्थापि या या बद्धा भुवि मुक्तिदास्स्युरमृता यस्यां मृता जन्तवः । या नित्यं त्रिजगत्पवित्रतटिनीतीरे सुरैस्सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ॥ नमस्तस्मै महेशाय यस्य सन्ध्यात्रयच्छलात् । यातायातं प्रकुर्वन्ति जगतां पतयेऽनिशम् ।। अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ सूताग्रे कथयामास कथां पापापनोदिनीम् । व्यास उवाच--- कदाचिन्नारदः श्रीमान् स्नात्वा श्रीनर्मदाम्भसि । श्रीमदोङ्कारमभ्यर्च्य सर्वदं सर्वदोहिनाम् ।। End: ब्राह्मणान् भोजयेत्पश्चाद्यथाविभवसारतः। सहस्रं वा शतं वापि पञ्चाशतमथापि वा ॥ पञ्चविंशतिकान्वापि ब्राह्मणान् ब्रह्मतत्परान् । एकादश द्विजान् वापि अष्टौ वापि द्विजोत्तमान् ॥ चतुरो ब्राह्मणान्वापि भोजयेत्प्रीतिपूर्वकम् । विश्वेशप्रीतये कुर्याद्भवान्याः प्रीतये तथा । सर्वेषां मङ्गलानाञ्च महामङ्गलमुत्तमम् । गृहेऽपि लिखितं पूज्यं सर्वमङ्गलसिद्धये ॥ For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy