________________
Shri Mahavir Jain Aradhana Kendra
1552
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
उमा
Acharya Shri Kailassagarsuri Gyanmandir
भवता पुण्यमाख्यानमुक्तं विस्त (र) तः पुरा । तन्त्राणि च पुराणानि कथिताश्च सविस्तराः ॥ मन्नान्ना संहिता शम्भो प्रोक्ता का चन शङ्कर । तां पुनः श्रोतुमिच्छामि रघुनाथकथाफलम् || को रामः सा कथा कीदृक् कीदृशस्तावकस्य च । का सीता लक्ष्मणः को वा शत्रुघ्नो भरतश्च कः || विभीषणो दशग्रीवः कुम्भकर्णश्च कोभ ( प ) वान् । मेघनादः पराशादः सर्वे लङ्कालयास्तथा ॥
किष्किन्धानिलयाश्शूराः वानराः कीदृशाः स्मृताः । को वा दशरथस्याच (ध) जानकी कीदृशा (शी) स्मृता ॥ इति पृष्टो गिरिजमा शिवः प्राह दयानिधिः । शिवः—
भक्तसंरक्षणार्थाय त्रिगुणोपाधिकस्य च । मूर्तित्रयमभूद्रूपमेकं शूलधरा पुरा ||
चक्राङ्कितकरा ह्यन्या कमण्डलुधरा परा । सर्वसंहारकारिण्या(ः) स्वरूपं त्रिविधं स्मृतम् ॥
हिमाद्रिप्रभवा एका क्षीराब्धिप्रभवा परा । अन्या वाणीति विख्याता क्रमात् तेषान्तु वल्लभाः ||
Colophon :
इत्युमासंहितायां सुन्दरकाण्डे रामायणमाहात्म्यं नाम एकादशोऽ
ध्यायः ||
For Private and Personal Use Only