________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1541
Beginning :
यस्मादिदं जगदजायत यत्र तिष्ठत्यन्ते समस्तमिदमस्तमुपैति यत्र । तस्मै नमस्सदसदादिविकल्पशून्य
चैतन्यमात्रवपुषे पुरुषोत्तमाय ।। कृत्वा तं नरसिंहरूपमतुलं लोकत्रयव्यापि यघ्यालम्बिस्फुटचारुकेसरसटासम्भाररम्याकृति। वक्षेक्षो)वज्रशिलासमूहकठिन विस्तारि देवद्विषो भिन्नं येन नखैमुदेऽस्तु भगवान् देवस्स नः केशवः । अशैः षड्भिस्समाकीर्णमङ्गैर्वेदमिवापरम् । पुराणं वैष्णवं चक्रे यस्तं वन्दे पराशरम् ॥ पराशरं मुनिवरं कृतपू(पौ)ोलिकक्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥
End:
व्योमाचलामिजलभूरचनात्मकाय शब्दादिभोग्यविषयावरणक्षया(मा)य । पुसस्समस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मप(व)ते नमोऽस्तु ॥ इति विविधमजस्य यस्य रूपं प्रकृतिपरः परमात्ममयं सनातनस्य । प्रदिशतु भगवानशेषपुसां
हरिपथजन्मजरादिकां स सिद्धिम् ।। इति श्रीविष्णुपुराणे षट्सहस्रसंहिताख्ये प्रवर्तकगुरुशिष्यपरम्पराप्रसङ्गे षष्ठंऽशे अष्टमोऽध्यायः ।।
190-A
For Private and Personal Use Only