________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1539
THE SANSKRIT MANUSCRIPTS. ब्रह्माणं लोककर्तारं सर्वज्ञमपराजितम् । प्रभुं भूतभविष्यस्य सांप्रतस्य च सत्पतिम् ।। ज्ञानमप्रतिमं यस्य वैराग्यञ्च जगत्पतिम् । ऐश्वर्यश्चैव धर्मस्य सहसिद्धं चतुष्टयम् ।। य इमां न्यस्यते भावात् त्रित्वं सदसदात्मकम् । आविशन्ति पुनस्तं वे क्रिया भावार्थमीश्वरम् ।। लोककृल्लोकतत्त्वज्ञो योगमास्थाय तत्त्ववित् । असृजत्सर्वभूतानि स्थावराणि चराणि च ।। तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम् । पुराणाख्यानजिज्ञासुव्रजामि शरणं प्रभुम् ।। ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्वा समाहितः । ऋषीणाञ्च वरिष्ठाय वसिष्ठाय महात्मने ।। अत्र प्रेवातियशसे जातुकर्णाय वेधसे । वासिष्ठश्चैव शुचये कृष्णद्वैपायनाय च ।। पुराणं संप्रवक्ष्यामि ब्रह्मोक्तं वेदसम्मितम् ।।
इति वायुप्रोक्ते महापुराणे अनुक्रमणिकाध्यायः ।।
खर्गीयमेतत्परमं पवित्रं पुत्रीयमेतञ्च परं रहस्यम् । जयं महत्पर्वसु चैतदग्र्यं दुस्खामशान्तिः परमाय तेषाम्॥ प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिप्रथितामजस्य । ममापि विख्यापनसंयमाय सिद्धिं जुषधं सुमहेशलब्ध()म् ॥
190
For Private and Personal Use Only