________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1535
Beginning: .
नमस्तस्मै वराहाय लीलयोद्धरते महीम् । खुरमध्यगता यस्य भूमिः खणखणायते ॥ दंष्ट्राग्रेणोद्धृता गौरुदधिपरिसता सर्वतो निम्नगाभिः साकं मृत्पिण्डवत्प्राग्बृहदुरुवपुषानन्तरूपेण येन। सोऽयं कंसासुरारिर्मुरनरकदशास्यान्तकृत्सर्वसंस्थः कृष्णो विष्णुस्सुरेशो नुदतु मम रिपूनादिदेवो वराहः ।।
सूत उवाचयस्मिन् काले क्षितिः पूर्व वराहवपुषा तु सा। उद्धृता विष्णुना भक्तया पप्रच्छ परमेश्वरम् ।।
धरण्युवाचकल्पे कल्पे भवानेव मां समुद्धरते विभो। न चाहं वेद ते मूर्तिमादिसर्गे च केशव ॥ वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम् । प्रविश्य ताम(न)पाकृष्य ब्रह्मणे दत्तवानसि ॥ अन्यत्सुरासुरमघं(थं) त्वं समुद्रस्य मन्थने । धृतवानसि कोर्मेण मन्दरं मधुसूदन ।। पुनश्च गां जगन्नाथ निमज्जन्ती रसातलात् ।। उज्जहारैकदंष्ट्रेण भगवान्वै महार्णवात् ।।
Colophon :
इत्यादिवराहपुराणे भगवच्छास्त्रसम्बन्धो नाम प्रथमोऽध्यायः ।।
For Private and Personal Use Only