________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1528
This commentary is by Appāji Pandita of Bhāradvaja-gotra. belonging to Gundumalla family. He was a pupil of one Cannubhatta.
Copied by Nāgunua, son of Krsṇama, son of Nägarāja of Tātayyapalli. Beginning :
श्रीशुकः-- तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् । दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् । पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥
ET
(व्या)
श्रीशुकः । तमित्यादि । उज्जिहानम् उद्यन्तम् । उडुपं चन्द्रमिव, दर्शनीयतमम् अत्यादरेण द्रष्टुं योग्यं, विनिष्कान्तं पुरद्वारान्निर्गतं, श्यामं श्यामलवर्ण, पीतकौशेयवाससं पीताम्बरधरं, श्रीवत्सवक्षसं वक्षसि श्रीवत्सलाञ्छनेन युक्तं, भ्राजत्कौस्तुभामुक्तकन्धरं प्रकाशमानकौस्तुभालङ्कृतविं, पृथुदीर्घचतुर्बाहुं पीनायतबाहुचतुष्टययुक्तम् ।।
Colophon:
इति श्रीमद्भागवते दशमस्कन्धान्वये षट्पञ्चाशोऽध्यायः ॥
End:
(मू) मर्त्यस्तयानुसवमेधितयानुवृत्त्या
श्रीमत्कथाश्रवणकीर्तनचिन्तयति । तद्धाम दुस्तरकृतान्तजवापवर्ग
ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीदशमस्कन्धे पञ्चनयतितमोऽध्यायः ।। स्कन्धम्समाप्तः ।।
189
For Private and Personal Use Only