________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1503
throughout life. The author bows to Vādibhikara Vēnkatārya in reverence and states that he consulted & commentary called Sukapaksa. Beginning:
शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। निगमशिखरगेयं नित्यकल्याणकायं श्रितपुरुषावधेयं श्रीधरित्रीसहायम् । भविकगुणनिकाय भावुकानामुपायं परिविगलितहेयं वालकृष्णं भजेयम् ॥ पुराणरत्ननिर्माणस्फुटीकृतजगद्धितम् । निष्कृष्टभगवत्तत्त्वं पराश (र)मुपास्महे ॥ कृष्णद्वैपायनं वन्दे साक्षान्नारायण मुनिम् । यस्य स्मरणमात्रेण धी(:) स्यात्सर्वार्थपण्डिता ॥ मूर्तामिव हरेर्भक्तिं श्रीशुकं मनवं (वा)महै । यद्गीताकृष्णचरितान्मुक्तोऽभूदुत्तरासुतः ।। वन्दे नन्दव्रजवधूवृन्दाविपिनदेवताः । यत्पयोधरशैलेषु कृष्णः कृष्णघनायते ॥ ब्रह्मविद्याप्रदानेन मम सर्वाघनाशनम् । संश्रये वेङ्कटाचार्य वादिभि(भी)कृत्कुलाधिपम् ॥ वन्दे वात्सल्यजलधिं सर्वविद्याप्रदं मम । नैष्टिकब्रह्मचर्याढ्यं पितृव्यं रामदेशिकम् ॥ श्रीवादिभीकरकुलोत्तमवेङ्कटार्यकारुण्यपूर्णकमनीयकटाक्षशक्तचा।। स्कन्धं विशिष्य दशमं शुकपक्षमुख्य. व्याख्यार्थसङ्कलनया विवृणोमि लोल्यात् । निम्नं महामुनिग्रन्थं व्याचिकीर्षोश्चलात्मनः ॥
For Private and Personal Use Only