________________
Shri Mahavir Jain Aradhana Kendra
·
www.kobatirth.org
1488
A DESCRIPTIVE CATALOGUE OF
The text with the commentary called Bhavarthadipika by Śrīdharasvamin.
Beginning:
(मू.)
(व्या.)
Acharya Shri Kailassagarsuri Gyanmandir
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदाय आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गे मृषा धाम्ना स्वेन सदा निरस्त कुहकं सत्यं परं धीमहि ॥ धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः || 'नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गीय लोकाय सहस्रसममासत ||
नमश्श्रीपरमहंसास्वादितचरणकमलचिन्मकरन्दाय भक्तजनमानसनि
वासाय श्रीरामचन्द्राय ।
बागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ||
विश्वसर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परन्धाम जगद्धाम नमामि तत् ॥
For Private and Personal Use Only