SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1465 अयमेव महाप्रश्नो विष्णोश्च परमात्मनः । उपासनं सूचयति धन्या यूयं सुभाषिणः ॥ उपासनं परं धर्म पृच्छन्ति कथयन्ति ये । ज्ञानविज्ञानसंपन्नास्ते वै वेदान्तवेदिनः ।। उपासनं परं धर्म वेदान्तेषु सुनिश्चितम् । तस्मान्नास्ति मुनिश्रेष्ठाः परमं मोक्षसाधनम् ॥ धर्ममर्थश्च कामञ्च मोक्षश्च सुलभाद्भुवि । उपासनात्प्राप्नुवन्ति स्वरूपञ्च हरेः पदम् ॥ उपासका ह्येव लोके श्रेष्ठास्सर्वमतेषु च । तेषां नास्ति समो लोके सर्ववेदेषु वा बुधाः ।। एवं ब्रुवाणं तं सूतं ब्रह्मणः परमात्मनः । उपासकान(।) पप्रच्छुर्लक्षणं मुनिपुङ्गवाः ॥ End: निषिद्धकर्मकारी च अविश्वासी स्वसाधने । पुरुषार्थविरोधी तु कैङ्कर्येतरकाश्रितः ।। चतुर्णामिह वै तेषां विरोधं यः करोति च । स वै प्राप्तविरोधीति प्रोच्यते मुनिसत्तम ॥ अर्थपञ्चकविज्ञानमेतद्वै मुनिपुङ्गव । एतद्विज्ञानवान् मुक्तो भविष्यति न संशयः ॥ Colophon: इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे अर्थपञ्चकविवरणं नाम त्रिंशोऽध्यायः ॥ परीधाविनामसंवत्सरे चैत्रमासे वैखानसेन कोण्डयार्यपुत्रेण वङ्गटायाभिधानेन लिखितं ब्रह्माण्डपुराणम् ॥ For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy