________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1435
श्रीव्यासःशृणु सूत प्रवक्ष्यामि पुराणं गारुडन्तव । सह नारददक्षायैः ब्रह्मा मामुक्तवान्यथा ।
सूतः..ब्रह्मा नारदमुख्यैस्तु सर्व त्वां कथमुक्तवान् । ब्रह्मेदं गारुडं पुण्यं पुराणं सारवाचकम् ।।
श्रीव्यासःअहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् । सारं ब्रूहीति पप्रच्छ ब्रह्माणं ब्रह्मलोकगम् ॥
ब्रह्मोवाचपुराणं गारुडं सारं पुरा रुद्रञ्च मां यथा । सुरैस्सहाबवीद्विष्णुः तदहं व्यास वच्मि ते ।।
End:
सौदामिनीविस्फुरिताभिरामं राजा यथोक्तं कुलिशं दधानः ।
पराक्रमोपात्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥ Colophon: इत्यादिमहापुराणे श्रीगारुडे एकोनसप्ततितमोऽध्यायः ॥
श्रीसूतःद्वीपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषान्तु शुक्त्युद्भवमेव भूरि ।।
या मैक्तिकानामिह जातयोऽष्टौ प्रकीर्तिता रत्नविनिश्चयज्ञैः । कञ्जोद्भवं तेषु धनं प्रकामं उत्पद्यते यच्च गजेन्द्रकुम्भात् ॥
For Private and Personal Use Only