________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
End:
THE SANSKRIT MANUSCRIPTS.
1433
There are 12 leaves at the end counting from 128 to 139, which contain_Adhyāyas 37 to 44 of the Uparibhága. These leaves seem to have formed part of an original MS. much of which must have been replaced here by other freshly written leaves.
This is one of the 18 Mahapuranas and consists of two parts; the first part contains 51 Adhyáyas, and the second part 44 Adhyāyas. For a list of contents see Aufrecht's Catalogue of the Bodleian Library.
Beginning :
Acharya Shri Kailassagarsuri Gyanmandir
नमस्कृत्वाप्रमेयाय विष्णवे कूर्मरूपिणे । पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना || सत्रान्ते सूतमनघं नैमिशीया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः । इतिहासपुराणार्थ व्यासस्सम्यगुपासितः || तस्य ते सर्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य तु भवांस्ततो वै रोमहर्षणः || भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां स (सं) हितां वक्तुं व्यासः पौराणिकीं पुरा || त्वं हि स्वायंभुवे यज्ञे सुत्यां हि वितते सति । संभूतस्संहितां वक्तुं समर्थः पुरुषोत्तमः ॥ तस्माद्भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् । वक्तुमर्हसि चास्माकं पुराणार्थे विशारदः ॥ मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः || प्रणम्य शिरसा प्राह गुरुं सत्यवतीसुतम् ||
तस्मै व्यासाय गुरवे सर्वज्ञाय महर्षये । पाराशर्याय शान्ताय नमो नारायणाय ते
For Private and Personal Use Only