________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1421
Complete. The text here contains 5 Adhyāyas, from 41 to 45 of the Udyoga parvan.
The text and the commentary. The commentary on Sanat. sujāta parvan is by Nilakāntha, son of Govindasuri.
Beginning :
(मू)
सनत्सुजात उवाच :
अपृच्छः कर्मणा कोचेत् मृत्युर्नास्तीति चापरे । शृणु मे ब्रुवतो राजन् यथैतन्मा विशङ्किथाः ॥ ३ ।। उभे सत्ये क्षत्रियैतस्य विद्धि मोहान्मृत्युस्सम्मतोऽयं कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि तथाप्रमादममृतत्वं ब्रवीमि ॥ ४ ॥
(व्या) यत्कर्मणा ब्रह्मचर्येण मृत्युर्नास्तीति तेन सत्यस्य बन्धस्य साधनेन नाश इति अपृच्छः पृष्टवानसि । यच्चापरं मृत्युस्स च रूपत एव नास्तीत्यपृच्छः। एतत् एतयोः पक्षयोः परस्परविरुद्धत्वं मा विशङ्किथाः मा मंस्थाः। अमृत्युः कर्मणा केचिदिति पाठे कर्मसाध्यममृतत्वमुत ज्ञानसाध्यमिति पक्षद्वयोपन्यासः । तयोश्च क्रमसमुच्चयपक्षाश्रयेण विरोधाभावं मन्वानो मा विशकिथा इति ब्रवीतीत्यर्थः ॥ ३ ॥
अविरोधमेवाह-उभे इति ।
एतस्य एकस्यैव पुंसोऽवस्थाभेदेन उभे अपि सत्ये एव हे क्षत्रिय विद्धि । अविद्यावस्थायां बन्धः सत्यः कर्मनाश्यश्च । विद्यावतां तु रज्जूरगवत्कालत्रयेऽपि नास्ति । मोहाद्भासमानस्य तु ज्ञानमात्रेण निवृ
For Private and Personal Use Only