SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1419 वैशम्पायनः ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत् । सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ धृतराष्ट्ररशोकमोहाभिसन्तप्तः " तरति शोकमात्मवित्" इति वदतो वादमुपश्रुत्य ब्रह्मविद्यामृते शोकापनयनमशक्यं मत्वा “अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते । - तन्मे शुश्रूषवे ब्रूहि विचित्राणीह भाषसे ॥" इति विदुरायोक्तवान् । सोऽपि परमकारुणिकत्वात् सर्वज्ञोऽपि सन् ब्रह्मविद्यां विशिष्टाधिकारिविषयां मन्वानः "शूद्रयोन्यामहं जातो नाहमेता(तोऽन्यद्) वक्तुमुत्सहे" इति शूद्रयोनित्वादोपनिषदब्रह्मात्मत्वज्ञानोपदेशे नाहमधिकृत इति मत्वा " कथमेनं ब्रह्मविद्यया परमपदे परमात्मनि पूर्णानन्दे स्वाराज्ये स्थापयिष्यामीति मन्वानश्छान्दोग्योपनिषत्प्रसिद्धमितिहासं स्मृत्वा “ नान्योऽस्मादस्मै तमसः परं परमात्मानं दर्शयितुं शक्नुयात् " इति मत्वा तमेव भगवन्तं सनत्कुमारं योगबलेनाहूय प्रत्युत्थानादिन। भगवन्तं पूजयित्वा "भगवन् संशयः कश्चिद्धृतराष्ट्रस्य मानसे ।। यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि ॥ श्रुत्वा यं तु मनुष्येन्द्रस्सुखदुःखातिगो भवेत् । लाभालाभौ प्रियद्वेप्यौ तथैव तु जरान्तकौ ।। विषहेत मदोन्मादौ क्षुत्पिपासे भयाभये । अरतिं चैव तन्द्रीं च कामक्रोधौ क्षयोदयौ ॥” इति । "भगवन् येनासौ सकलसांसारिकधर्मवर्जितः सुखदु:खातिगो मुक्तो भवेत् तमस्मै धृतराष्ट्राय वक्तुमर्हसि” इति उक्तवान् । 182 For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy