________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1411
THE SANSKRIT MANUSCRIPTS. कर्मोपास्तिज्ञानभेदैश्शास्त्रं काण्डत्रयात्मकम् । अन्ये तूपासनाकाण्डात् तृतीयो नातिरिच्यते ॥ ३ ॥ तदेव ब्रह्म विद्धि त्वं नेदं यत्तदुपासते । इति श्रुत्यैव वेद्यस्य ह्युपास्यादन्यतेरिता ॥ ४ ॥ इयमष्टादशाध्यायी क्रमात् षटत्रिकेण हि ।।
कर्मोपास्तिज्ञानकाण्डत्रितयात्मा निगद्यते ॥ ५ ॥ तत्र युद्धोद्यमं श्रुत्वौत्सुक्यादग्रिमं वृत्तान्त बुभुत्सुधृतराष्ट्र उवाच धर्मक्षेत्र इति । तत्र वेदे तेषां कुरुक्षेत्रं देवयजनमासेति कर्मकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमित्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत् । ब्रह्मसदनत्वं वा। अस्त्यत्र हि जन्तोः प्राणेषत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवतीति वाक्यशेषेण व्युपपादितम् । एतद्व्यावृत्त्यर्थ “धर्मक्षेत्रे” इति विशेषणम् । End :
यत्रेति । यत्र पक्षे । ध्रुवेति सर्वत्र सम्बध्यते । श्रीदि (रि)ह वस्त(स्तुध)नादिशोभा । विजयः प्रसिद्धः । भूतिरैश्चर्यम्--सर्वनियन्तृत्वम् । नीतिर्नयश्च । एतत्सर्वम् । तत्र तस्मिन् पक्षे । ध्रुवमिति मम मति(:) अतः पाण्डवैस्सह सम्बन्धिरेव कर्त(ब्यः) ।
' इति श्रीमहाभारते भीष्मपर्वणि भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गीतार्थप्रकाशेऽष्टादशोऽध्यायः ।
___No. 2082. मैरावणचरित्रम्.
MAIRĀVANACARITRAM Substance, palm-leaf. Size, 18} x 1} inches. Pages, 98. Lines, 8
on a page. Character, Grantha. Condition, slightly injured. Appearance, old.
181
For Private and Personal Use Only