________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1406
A DESCRIPTIVE CATALOGUE OF
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमाम्यहम् ।। श्रिय पतिनिखिलहेयप्रत्यनिकल्याणक (नीककल्याणैक)तान(:,) स्वे. तरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्यवीर्यशक्तितेज सोशील्यप्रभृत्यसङ्ख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्या दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः ।
पुरुषोत्तमो नारायणो ब्रह्मादिस्थावरान्तमखिलजगत्सृष्ट्वा स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरोऽपारकारुण्यसौशी. ल्यवात्सल्यौदार्यमहोदधिः, स्वयमेव रूपं तत्तज्जातीयसंस्थानं स्वभावमजह. देव कुर्वस्तेषु लोकेष्ववतीर्य तैस्तैराराधितस्तत्तदधिकारानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन् भूभारावतरणापदेशेन अस्मदादीनामपि समाश्रयणे(णी)यत्वायावतीर्योया सकलमनुजनय न विषयतां गतः, परापरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन् , पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुकासुरकाळीयकेळिकुवलयापीडचाणूरमुष्टिककंसादीनिहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनामृतैर्विश्वमाप्याययन् , निरतिशयसौन्दर्य सौशील्यादिगुणगणाविष्कारेणाक्रमालाकारादीन् परमभागवतान् कृत्वा पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं खविषयं ज्ञानकर्मानुगृहीतभक्तियोगमेवावतारयामास । तत्र पाण्डवानां कुरूणां च युद्धे स भगवान् पुरुषोत्तमः सर्वेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थ रथिनमात्मानं च सारथिं सर्वलोकसाक्षिक चकार । एवं ज्ञात्वापि सर्वात्मना धृतराष्ट्रः सुयोधनविजयबुभुत्सया स. अयं पप्रच्छ-~
For Private and Personal Use Only