SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1404 A DESCRIPTIVE OATALOGUE OF भक्तया प्रणम्य स्वगुरुमानन्दात्मसरस्वतीम् । क्रियते श्रीमद्भगवद्गीतातात्पर्यवोधिनी ॥ इह खलु भगवानमिततपोबलतेजश्शक्तिसम्पन्नः सर्वविद्यानिधिस्सर्वज्ञचूडामाणस्साक्षादपरः श्रीमन्नारायणः श्रीकृष्णद्वैपायनः परमकारुणिकाग्रगण्यः स्वयमतिकृपया भविष्यद्विद्वज्जनानामनतिप्रज्ञामाज्ञाय वर्णाश्रमाणां सकलपुरुषार्थसिद्धये तत्सिाद्धिसाधनप्रकाशकमनन्तवेदराशिमृगादिभेदेन च. तुर्डा विभज्य एकैकां शाखां पैलवैशम्पायनादिशिष्यप्रशिष्योपशिष्यपरम्पराद्वारा संवर्द्धयामास ॥ तत्रादौ पाण्डवानान्धार्तराष्ट्राणाञ्च युद्धाय सन्नद्धानां प्रवृत्तिं श्रोतुकामो धृतराष्ट्र उवाच-- धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।। धर्मप्रधानत्वात् धर्मप्रदत्वाद्वा धर्मक्षयात् त्रायत इति वा धर्मक्षेत्रं तस्मिन् धर्मक्षेत्रे वासमात्रेण धर्मतत्फलप्रदे कुरुक्षेत्रे युयुत्सवो युद्धचिकीर्षवोऽत एव समवेतास्समवायम्प्राप्ताः सन्नद्धा मामकाः दुर्योधनादयःपाण्डवाश्च किमकुर्वत किं कार्य कृतवन्तः? सञ्चय तद्ब्रहीत्यर्थः। नन्वत्र युयुत्सव इति विशेषणबलेन समवेतानान्तेषां कर्तव्यङ्कार्य युद्धमेवेति युद्धस्यैव कर्तव्यत्वे प्रतीयमाने कथं युद्धं प्रवृत्तमिति प्रश्नमुत्सृज्य किमकुर्वत सञ्जयेति धृतराष्ट्रप्रश्नोऽनुपपन्न इति न शङ्कनीयम् ; धर्मक्षेत्र इत्युक्तत्वात् तत्क्षेत्रमहिम्ना स्वयमेव धर्मपरो भूत्वा दुर्योधनः तत्पित्र्यं धर्म्यमर्द्धराज्यं तेषान्दत्तवान् वा उत तस्यैव महिम्ना प्रवृद्ध. धर्मा सन् धर्मपुत्रः स्वजनवधो नरकायेति नरकभयात् युद्धादुपरतो वा अथवा सर्वे युद्धमेव कृतवन्तो वा यत्तत्र वृत्तन्तद्वदेत्युपपन्नतरः प्रश्न इत्यर्थः ॥ For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy