________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
1399
पक्षे । श्रीः राज्यलक्ष्मीः ध्रुवा स्थिरा, तत्रैव विजयो ध्रुवः, तत्रैव भूतिः श्रियो विशेषविस्तारः ध्रुवा, तत्रैव नीतिः नयः ध्रुवा । इति मम मे मतिः निश्वयः ॥ ७८ ॥
Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्यब्रह्मानन्दसरखतीस्वामिशिष्यरामचन्द्रानन्दसरखतीविरचितायां श्रीमद्भगवद्गीताव्याख्यायां पदयोजनासमाख्यायां सकलशास्त्रपदार्थतत्त्वनिर्णयमोक्षयोगो नामाष्टादशोऽध्यायः ॥
यस्सच्छास्त्रनिशातशान्तशकुनैर्दान्तातिदान्तैर्मृगै
हं चिदहं चिदेकरस एवास्मीति वा पठ्यते । यस्यानुग्रहलेशमात्रविभवान्मूकोऽपि वाग्मी भवेब्रह्मानन्दसरस्वतीति यतिनां राजा स मे राजते ॥
विरोधिनाम संवत्सराषाढशुक्ल द्वितीयायां श्रीमत्परमहंस परिव्राजकाचार्यश्रीमद्वासुदेवेन्द्रस्वामिनामन्तेवासिना श्रीमत्कोलचलमान्वयसुधाम्बुधिसुधाकरेण लक्ष्मीनृसिंहेन लिखिता श्रीरामचन्द्रानन्दसरस्वतीविरचिता श्रीमद्भगवद्गीताव्याख्याष्टादशाध्यायिनी समूला सम्पूर्णा ||
नत्वा भास्करकोटिकोटिसदृशं श्रीवासुदेवं हरिं गीताशास्त्र विवेकतत्त्वरचनाव्याख्या मया लिख्यते । यत्पादाब्जनिषेवणादहमपि प्राप्तोऽस्मि सन्मान्यतां श्रीरामस्य दयानिधेच करुणापात्रं पवित्रीकृतः || को वा शङ्करपूज्यपादभगवानाहोऽथ वा तद्गुरुर्व्यासो वा शुकमौनिरेव रमते नीलाचले सन्ततम् । नानाभिक्षुकरक्षणाय शरणत्राणैकदीक्षागुरुब्रह्मानन्दसरस्वतीतिलकया नारायणो वा स्वयम् ||
For Private and Personal Use Only