SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRİT MANUSCRIPTS. 1893 पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ (व्या.) शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १॥ शेषाशेषमुखव्याख्याचातुर्य त्वेकवक्रतः । दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ २ ॥ सद्गुरुम् ॥ श्रीमाधवं प्रणम्योमाधवं विश्वेशमादरात् । तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥ भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा । यथामति समालोडच गीताव्याख्यां समारभे ।। गीता व्याख्यायते यस्याः पाठमात्रादयत्नतः । सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥ इह खलु सकललोकहितावतारः परमकारुणिको भगवान् देवकीनन्दनः तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मत्यागपरम्पर(रा)धर्माभिसन्धिमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसाग. रादुद्दधार । तमेव भगवदुपदिष्टमर्थ श्रीकृष्णद्वैपायनस्सप्तभिः श्लोकशतैरुपनिबबन्ध । तत्र च प्रायशः श्रीकृष्णमुखनिस्सृतानेव श्लोकानलिखत् । कांश्चित्तत्सङ्गतथे स्वयं व्यरचयत् । तथोक्तं गीतामाहात्म्ये :-- " गीतास्सुगीताः कर्तव्याः किमन्यैश्शास्त्रसद्धहैः । याः स्वयं पद्मनाभस्य मुखपद्माद्विनिस्मृताः ॥” इत्यादि ।। For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy