________________
Shri Mahavir Jain Aradhana Kendra
1340
Beginning:
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमद्बोपालमानम्य प्राचीनाचार्यवर्तिना । आश्वमेधिकभावार्थः श्रीकृष्णेन प्रकाश्यते || अश्विस्तुत्यार्थयायाताष्टावक्रीयेषु सूत्रितम् । सनत्सुजात विवृतं गीतायां विपुलीकृतम् ॥ मोक्षधर्मेषु च पुनर्नानाख्यानोपबृंहणैः । अतीव व्याकृतं प्रत्यगात्मतत्त्वमनाकुलम् | यजिज्ञासोदयो (या) यैव जपदानादयः स्मृताः । आनुशासनिके सम्यक् चित्तदोषविनाशकाः ॥ यत्र प्रावण्यलाभाय वैराग्योदयसिद्धये । कुरुक्षयादिको
वृत्तान्त उपवर्णितः ||
तदेव स्पष्टमात्रोपसंहरव्यदेशतः ।
आत्मतत्त्वं विवृणुते मुनिराख्यानकैस्त्रिभिः ||
आख्यानत्रयं च संवर्तमरुत्तोयम्, कृष्णधर्मसंवादः, कृष्णार्जुनसंवादश्च । तत्राद्यः काश्यां मृतस्य मुक्ति लिङ्गेनैव सूचयित्वा ईश्वरा -- राधनादिना धर्मेणैव धनं लब्ध्वा आत्मशुद्धये यष्टव्यमित्युक्तम् । द्विती शास्त्रार्थसूत्रणं तृतीये तद्विवरणं चेति । तत्रोर्ध्वम् उतङ्कीस्थावकन्याद्याख्यानैः सामोपयोगिगुरुशुश्रूषामहा म हिंसात्मकयज्ञनिन्दाद्वि(दि) च यथायथं तात्पर्यविषयतया ज्ञेयम् । तत्रायमाद्यः श्लोकः नारायणमिति । “ आपो नारायणः (इति)प्रोक्ता आपो वै नरसूनवः । अयनं तस्य (ताः) प्रोक्तं तेन नारायणः स्मृतः || ” इति स्मृतेः, आपः पुरुषवचसः" इति श्रुतेश्चाम्भः प्रधान (नं) भूतं(त) पञ्चकम् । भ(न)रेणान्तर्यामिणा सृष्टं नारम् । तत्सृष्ट्वा । तदेवानु (प्रावि - शत् । तदनु) प्रविश्य । ( सच्च त्यच्चाभव) दिति श्रुतेः; स्रष्टा प्रवेष्टा च नारायण ईश्वरः । स एव प्रविश्योपाधिधर्मानभिमन्यमानो नरो जीवः
66
For Private and Personal Use Only