________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
941 कर्तव्यं भवति प्रत्ययलक्षणेनैव सिद्धत्वात् । यदि पुनरासप्तमाध्यायपरिसमाप्ति(प्ते)रयमधिकारः ततोऽवश्यं लुग्ग्रहणं कर्तव्यम् । न ह्ययं यङ्लुकि गुणस्सिध्यंति न लुमताङ्गस्येति प्रतिषेधादिति तेषामभिप्रायः। वृत्तिकारस्तु यदि प्रागभ्यासविकारेभ्योऽयमधिकारस्स्यात् ततो वज्रश्चेत्यत्र वृश्चतेर्लिटु(टि) द्विवचने कृते हलादिशेषात्संप्रसारणं पूर्वविप्रतिषेधेनेति पूर्वविप्रतिषेधादुभयेषामिति वचनसामर्थ्याहा हलादिशेषं बाधित्वा संप्रसारण स्यात् । End:
मयड्रेतयोरित्यादिना मयट्। ऋप्त्यवा] ऋप्त्यवास्तव्य(ऋल्यवास्त्व्य) मिति भवेछन्दसीति यत् । वास्त्वमिति तस्येदमित्यण् एवं माहि(ध्वी) इत्यत्रापि । हिरण्ययइत्यत्र पूर्ववन्मयट् ।। Colophon:
इति स्थविरजिनेन्द्रबुद्धिविरचितायां काशिकाविवरणपञ्चिकायां षष्ठस्याध्यायस्य चतुर्थः पादः ।। अध्यायश्च समाप्तः ॥
No. 1324. शब्दकौस्तुभः.
SABDAKAUSTUBHAH. Substance, pupor. Size, 13 x 3g inches. Pages, 440. Lines, 10 on a _page. Character, Telugu. Condition, good. Appearance, old.
First Pāda of the I Adhyâya; complete. A commentary on Panini's Astadhyavi by Bhattojidiksita, son of Laksmidharasuri. Beginning :
विश्वेशं सच्चिदानन्दं वन्देऽहं योऽखिलञ्जगत् । चरीकति बरीभर्ति सञ्जरीहर्ति लीलया ॥ नमस्कुर्वे जगद्वन्धं पाणिन्यादिमुनित्रयम् । श्रीभत्रु(र्तृ)हरिमुख्यांश्च सिद्धान्तस्थापकान् बुधान् ॥.
For Private and Personal Use Only