SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1230 · A DESCRIPTIVE CATALOGUE OF ____ महः तेजः । तच्च, आदेवः क्रीडाविजिगिषादिः । स च, शं सुखम् । तच्च, भा कान्तिः । सा च, उमा गौरी । सा च--महादेवशंभोमं सर्वो द्वन्द्वो विभाषैकवद्भवतीति एकवद्भावः । तत् जिहा(ही)ति(ते) गच्छतीति महादेवशंभोमह—सम्बुध्यन्तम् । आतोऽनुपसर्गे क इति ओहाङ्गतावित्यस्मात्कः । अस्य विष्णोः देव स्वामिन् अदेव न विद्यते स्वामी यस्मात्सः अदेवः तत्संबुद्धिः। सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ।। वेदार्थशैवशास्त्रज्ञः पठ्येकोऽभूद्दिजोत्तमः । तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ।। तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां बोधसिद्धये ॥ म्यरस्तजन्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ।। End: वंशेऽभूत्काश्यपस्य प्रकटगुणगणश्शैवसिद्धान्तवेत्ता विप्रः पठ्येकनामा विमलतरमतिर्वेदतत्त्वावबोधे । केदारस्तस्य सूनुश्शिवचरणयुगाराधनैकाग्रचित्तः छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ।। छन्दश्शास्त्रमिदं पुरा त्रिनयनाल्लेभे गुहो नन्दनः तस्मात्प्राप सनत्कुमारकमुनिरा(स्त)स्मात्सुराणां गुरुः । For Private and Personal Use Only
SR No.020186
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 03
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1906
Total Pages355
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy