________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1227
एवमाचरितमङ्गलः संप्रति गुरुलघुविवतै छन्दश्शास्त्रं मन्वानस्तद्दयव्यवस्था कुर्वन्नाह
दीहो संजुत्तपरो बिन्दुजुउ(ओ)पाडिउयचरणन्ते । स गुरू व दुम” अण्णो लहु होइ सुद्ध एक अलो ॥ दीर्घः संयुक्तपरः बिन्दुयुतः पातितश्च(च)रणान्ते ।
स गुरुर्वको द्विमात्रः अन्यो लघुर्भवति शुद्ध एककलः ॥ दीर्घः-आ ई ऊ ऋ लू ए ऐ ओ औ इत्यष्टौ । हस्खो नास्तीति तदुपादानम् । स्वरान्त्यस्य च उकारादेशः प्राकृते इति नियमानतद्रहणम.
End :
तिअभङ्गी, दुम्मिल, हीरो, जनहरणी ; मअणहरा, मरहठ्ठा, पचतालीसधरा, एतानि पञ्चचत्वारिंशत् स्थानकानि । अन्यान्यपि प्रस्तारगत्या सुधीभिरूह्यानि ।
पिङ्गलाचार्यरचितमात्र(I)वृत्तप्रकाशकम् । छन्दःप्रदीपममलं जगद्भवनदीपकम् ॥ मुनीषुरसभूमिभिर्मितेऽब्दे श्रावणे सिते ।
नागराजतिथौ भट्टलक्ष्मीनाथो व्यरीरचत् ।। संवत् १८७९ चैत्रशुक्ल प्रतिपल्लिखितमिदं बुद्धिरामेण महाराजश्री अजेन्द्ररणधीरसिंहराज्ये वेङ्कटेशस्य पठनार्थम् ।
मङ्गलं लेखकानां च पाठकानाञ्च मङ्गलम् । मङ्गलं सर्वलोकानां भूमिपतिमङ्गलम् ॥
158
For Private and Personal Use Only