________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS,
1211
Beginning:
यन्मायामहिमामासादिदं जगदभात्यलम् । तमादिपुरुषं वन्दे सर्वातीतं मनोहरम् ।। अधुना देवमानुष्यतिर्यक्छब्दार्थजम्भिताम् । रम्यापवरकप्राप्तत्रितयातिमनोहराम् ।। ..। नानार्थसविकारार्यपर्यायपदभासुराम् । शब्दशब्दार्थमञ्जूषामपूर्वी रचयाम्यहम् ॥ अनन्तशब्दजलधेः पानी (ची)नकविसन्ततेः । विना हंवीरमिश्रोक्तिप्लवं किं तारकं भवेत् ।। तस्मादनन्तशब्दाब्धिविचित्रार्थपदाण्डजान् । प्रतिभाजालभेदेन गृह्णामीहातिलीलया । प्रथमं पुरुषाज्जाता ब्रह्मविष्णुमहेश्वराः । यक्षरक्ष(क्षो)विभेदेन देवा द्वेधा बभूवतुः ॥ तत्र यक्षा बहुविधा विद्याधरमुखा यथा । विद्याधरो यक्ष इति प्रथमं द्विविधा ततः ॥ सिद्धस्साध्यः किन्नरश्च गन्धर्वो गुह्यकस्तथा । अप्सराः पन्नगाद्याश्च बहुभेदा इतीरिताः ।।
End:
बिलेशयः कळानाथे मृगेन्द्रे परमात्मनि ॥ पुरन्दरे महादेवे कुत्सिते वाच्यलिङ्गकः ।। पारावते परिक्षीणे माणिक्याधारकेऽपि च ॥ अनन्तत्वात्पदार्थानां पर्यायाणामसङ्ख्यया । उक्ता एवालमित्यूह्य(घ)शाम्यते शब्दवारिधौ ॥
156
For Private and Personal Use Only