________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1207
End:
एकलिङ्गढिलिङ्गश्च त्रिलिङ्गैच करोत्ययम् । शब्दैः काण्डैस्त्रिभिः पूर्णी शब्दलिङ्गार्थचन्द्रिकाम् ।। केचिन्नानार्थकानाहुः केचिल्लिङ्गविनिश्चितान् । सोऽयमारभते तादृक्श(छ)ब्दलिङ्गार्थचन्द्रिकाम् ।। यद्यप्युक्ता विचित्रोक्तिस्सकलानामपि प्रिया । तेनैव लीलया चोक्ता नानार्थपदपेटिका ॥ तथापि शब्दलिङ्गार्थचन्द्रिका शब्दवारिधौ । ममालिङ्गार्थमत्स्यार्थ मज्जतां महतां मुदे ॥ शङ्कस्तु शङ्करे शैवभेदे जलचरान्तरे । ध्रुवे पत्रशिलाजाले सड्याभेदे च कीलके ।। ताम्राक्षः कोकिले दैत्ये लोहिताक्षे त्रिलिड़कः । तुम्बाभेदे गवाक्षस्स्याद्वाक्षा तु स्त्रियां स्मृता । वातायने गवाक्षोऽस्त्री वानरे पुंसि कथ्यते ।
वैदेही पिप्पला सीता विदेहीयस्त्रिीलङ्गकः ॥ Colophon :
इति श्रीमदनवद्यविद्याहृयाखण्डपाण्डित्यमण्डितपण्डितमण्डलविकट. पटुतरकिरटिपटलतटपटुघटितमरकतमुखमणिगणघटनसन्दीप्यमानारुणारुणचरणनखेन, शश्वदमन्दानन्दसन्दोहकन्दळीकृतहृदयारविन्दसखेन, समस्त. विपक्षपक्षदक्षप्रशस्तमस्तकविन्यस्तवामपादेन, सकलदर्शनाप्रतिद्वन्द्वभूतवा. देन, सर्वदानन्दितस्वजनेन श्रीसुजनेन विरचितायां निखिलकोशसाररूप. विरचितायाम् अखिलसरससान्द्रिकायां शब्दलिङ्गार्थचन्द्रिकायां सर्वः त्रिलिङ्गकाण्डस्सम्पूर्णः ॥
सुजनेन कृतः श्रीमत्तृतीयः काण्ड ईदृशः। समर्पितश्शङ्कराय भक्तहृत्पद्मभानवे ।।
For Private and Personal Use Only