________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1194
A DESCRIPTIVE CATALOGUE OF
This commentary is said to have been oomposed by Vācaspatimisra, grandson of Sarasvatamisra, the author of the text. Beginning:
निखिलागमपल्लविते निगमशिरस्तन्त्रशीतलोद्याने । मधुरतरम वाचः कूजन्नास्ते गिरीशकलकण्ठः॥ यदनुग्रहसंवळितश्रीविद्यासारघुटिकसिद्धोऽभूत् । सारस्वतमिश्रोऽयं सर्वज्ञस्तं सदाहमहमीळे ॥ यत्करुणादृष्टिवशान्न्यकृतकविराजवृन्दमखिलेशम् । तत्पुत्रं मत्पितरं सततं शिरसा नतोऽस्मि सर्वज्ञम् ।। यत्सारखतमिश्र()द्वाचस्पतिमिश्रनाम समभून्मे । तं जनकजनकमार्य शिरसा वन्दे गृहीतशिवतत्त्वम् ।। अधुना तत्कृतविलसन्मेदिनिभावार्थवेदिसामर्थ्यम् । रम्यं सुमन कान्तं कलये व्याख्यानदीपविशदार्थम् ।। तत्र च ये ये गूढाः कोविदराज्यां समस्तनिगमान्ताः ।
तत्रैव बहुविधार्थ द्र(ध्र)जयामि ह सर्वशास्त्रसङ्गत्या ॥ अथ महान् कविराजशिरोमणिस्सारखतमिश्रः प्रथमं निखिलनिगमा गमान्तस्सा (सा) रसंवेदनीयपरतत्त्वनिदानमहेश्वरभजनरूपमङ्गळमाचरति श्रित इति–श्रिताः स्वस्मिन्नाश्रिताः । प्रदेशविशेष इति सूच्यते। ये अनन्ताण्डाः अनन्तब्रह्माण्डाः । तेषु सम्भूताः । एतेन “मायान्त(न्तु) प्रकृति विद्यात् इ"ति श्रुत्या “सत्त्वं रजस्तम इति प्रकृतेस्सम्भवा गुणाः" इति चित]दशभूता इति सूच्यते। यास्ताण्डवार्चाः ताण्डवशीला विग्रहाः। End :
सादृश्यषटे । अतिशय इति यावत् । पालनादिषु व्यापारादौ । माहात्म्यपञ्चके । अवधारणषट्टे भिन्नषट् । मर्याद(।)पञ्चके । निश्चयपढ़े
For Private and Personal Use Only