________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1187
गौरश्वः पुरुषो हस्ती शकुनिर्बाह्मणस्त्विति । एधते धयते शेते भवतीत्येवमादयः ॥ ४ ॥ रक्तः श्वेतोऽर्बुदः कृष्ण एवं डित्थकपित्थवत् । पुंसि केचित् स्त्रियामन्ये क्लीबे केचिदुदीरिताः ॥ ५ ॥ स्तनकेशवती स्त्री स्याल्लोमशः पुरुषस्स्मृतः । अनयोरन्तरं यच्च तदै प्रोक्तं नपुंसकम् ॥ ६ ॥ दृष्ट्वा जैमिनिकोषसूत्ररचनां कात्यायनीयं मतं व्यासीयं कविशङ्करप्रभृतिभिर्यद्भाषितं निश्चयात् । यश्वानन्दकविप्रवीररचितं बद्धं च यद्दण्डिना यद्वात्स्यायनशाश्वतादिकथितं कुर्वेऽभिधानाद्भुतम् ॥ ७ ॥ मा कुर्वेत्तु(र्वन्तु)भयं करालकलितः प्रायः श्रुतेनी(ना)शनात् सर्वभ्रान्तजनादनेककविताहीनप्रगल्भाश्रयात् । उद्गा(द्धा)रं भवतां विधाय हृदये भो भ्रातरोऽयं मया कर्तव्यः परमोद्यमः श्रमविधेः शब्दात्कुतस्सीदथ ।। ८ ॥ किं पद्यभाररचनाभिरनेकवारं किं वल्गनैः किमिह दर्पपरीतवाक्यैः । यल्लभ्यते किल समाधिविधेर्विधानात् किं तत्र विस्तरविवेचनवाग्भिरर्थः ॥ ९ ॥ को वेद शब्दजलधेरखिलस्य पारं सारं विधाय विधिना मनसो विचारात् । शम्बूकमा क)र्कटझषादिभिरेव सङ्गः प्रायो भवेदिह न रत्नमिलिः कदापि ॥ १० ॥ यावान् कश्चित् वान्तः शब्दोऽत्र नपुंसके हि बोद्धव्यः । वर्ज हि पुत्रमन्त्रश्वित्रानेवं गरित्रं च ॥ १ ॥
163
For Private and Personal Use Only