________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1184
A DESCRIPTIVE CATALOGUE OF
कीवपुंसोरपि स्त्रीत्वं काप्यल्पस्वविवक्षया । जातिवाचकशब्दानामपि तत्स्त्रीविवक्षया ।। ७ ।। उद्भिदः प्रसवे क्लीवे हरीतक्यादयः स्त्रियाम् । पुष्पे जातीप्रभृतयः खलिङ्गा व्रीहयः फले ॥ ८ ॥ प्राङ्नानार्थान्न तल्लिङ्गं द्वयोर्द्वन्द्वे न चैकता । शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ ९ ॥ क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः । त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ १० ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः । सप्तम्यन्ताभिधेयेषु वर्तमानो विनिश्चितः ॥ ११ ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात्कृतः । खरकाद्यादिकाद्यान्तवर्णैर्नानार्थसङ्ग्रहः ।। १२ ॥ नानार्थकोषपुस्तकभारार्जनदु खहानये कृतिनः । मेदिनिकरकृतकोषो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १३ ॥
कैकम् - को ब्रह्मणि समारात्मवमवक्षेषु भास्करे । कामग्रन्थौ चक्रिणि च पतत्रि (त्रौ) पार्थिवे तथा ॥ १४ ॥ मयूरेऽमौ च पुंसि स्यात् सुखशीर्षजलेषु कम् ।
__कहि(:)अर्कोऽर्कपणे स्फाटिके रवौ तामे दिवस्पती ॥ १५ ॥
End:
हे है सम्बोधने हतौ हो हौ शब्दस्तथैतयोः ॥
For Private and Personal Use Only