________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1173
खमित्रकाळिदासोक्तशब्दरत्नार्थजृम्भिताम् ।
तरलाख्यां लसद्व्याख्यामाख्यास्ये तन्मतानुगाम् ।। अथ कविरादौ जगदीश्वराभिवन्दनलक्षणमङ्गळमाचरति--तमिति । तम्-प्रसिद्धम् । एवकारेणानन्यशरण्यत्वं व्यज्यते । अत एव प्रकृतविघटनमिति सर्वत्र प्रमाणम् । शिरश्शब्देन लौल्यता द्योत्यते । सव्य. वामभागसितासित इत्यर्थः । एवं चैकाङ्गीभूतपार्वतीपरमेश्वरात्मकपरमशिवमूर्ति वन्द[त] इति योजना । अथुना प्रकृते। अयमर्थ :-पाणिन्यादिमहात्मपञ्चकनिर्मितवैयाकरणशास्त्रनिर्नी (९) तशब्दखतन्त्रादिप्रकृत्यर्थमात्रविवरणं क्रियत इति ॥
तदुक्तं रहस्ये
" स्वतन्त्रधातुतद्दन्द्वसङ्गतासङ्गतात्मिका । प्रकृतिस्तत्र विज्ञेया न कौमारे त्वयं विधिः” इति ।।
यद्यपि “शक्तिश्शम्भुः कुमारश्चापीन्द्रस्सूर्यो निशाकरः” इत्युक्त. मपि ।
“श्रीशक्तिशम्भुसूचितसुविभक्त्याकलनसिद्धपदयोगात् । चक्रे कुमारमूर्त्तिाकरणं सर्ववेदसरसार्थम् ।।"
इत्युक्तत्वादुपरतमिति गृहाण । तत्रापि प्रकृतावपि । रहस्ये “ तदर्थानामनन्तत्वात्" इत्युक्तत्वादिति । नियन्त्रिते उक्ते । ग्रहीतुम्-अवगाहितुम् । येनोपायेन । सर्वार्थशब्द एव रत्नानि(नी)ति व्युत्पत्तिः । निबन्धनप्रकारं दर्शयति वर्गय (गें)ति । अयमर्थ :-कादिक्षान्तं तदन्तकपदानीति । पूर्वोक्तप्रकृतोरेवेति यावत् । सर्वलिङ्गता त्रिलिङ्गता भूमिकः शब्दव्यवहारादिति यावत् । . . . . . . अवतेरित्यादिना मत्प्र(प्र) त्ययष्ठि(ष्टि)लोपश्च प्रत्ययस्य, ऊल् गुणश्च । तथा च ओम् - अवतीति ओम् । तत्तदुपयोग द्रष्टव्यम् । अव रक्षणे । चन्द्रादि राजादयः । महोदध्यादि
For Private and Personal Use Only