________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1119
Beginning:
श्रीजगज्जननीं गौरीमम्बामम्बुजलोचनाम् । चन्द्रार्धशेखरां बालां नमामि गुरुपूजिताम् ॥ १ ॥ . सर्वसहायां गीस्सर्वसहं (हां) कूटस्थमार्यकम् । सुजनं सुजनाधारं वन्दे वन्दारुनन्दकम् ।। २ ॥ श्रीमत्पण्डितकेसरीश्वरमतिप्राबल्यपाण्डित्यकं तत्पुत्रं सकलागमान्तगमिताम्बामन्त्रमाहात्म्यकम् । श्रीसाम्बापरमूर्तिमन्तमधुना विद्वादिलोलाख्यक वन्दे मत्प्रपितामहं कुलधनं मद्विद्यया तोषितम् ॥ ३ ॥ पुनः पुनस्तं पितरं सुपूजितं समस्तविद्याखिलसारसङ्ग्रहम् । कविप्रकाशं करुणारसाकरं मुकुन्दनारायणभट्टमीळे ॥ ४ ॥ विद्वच्चकोरवरनाम विधाय मोदाद्विद्यानिधिं सकलसुन्दरवाक्यजालम् । दृष्दैव मां मुदमवाप पितामहो यो वन्दे तमेव पुनरेव महानुभावम् ।। ५ ।। तेनैव चोदित इह प्रकटं करिष्ये सिद्धाञ्जनार्चितपदावळिमूलकन्दे । मूले समस्तवरनाममतानुसारं . कुर्वे शरत्सकलकोशपदाभिरामम् ॥ ६ ॥ उभयानन्दसन्धानशरदानन्दभाग्भवेत् । कश्चकोरकवीन्द्रेण विना भूखण्डमण्डले ॥ ७ ॥
For Private and Personal Use Only