________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
1085
been the son of Mallinatha and Laksmi and to have been the brother of Bhama named Vṛttividya, and to have belonged to the family of Bāņa.
Beginning:
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीर प्राच्याचलसमुदितमखिलप्रकाशनं वन्दे । दिव्यध्वनिपटुदीधितिमहमक्षरपद्धतिप्राप्त्यै || श्रुतभर्तुरर्हनन्दित्रैविद्यमुनेः पदाम्बुजभ्रमरः । श्रीबाणसुकुलकमलद्युमणेरादित्यवर्मणः पुं ( प ) त्रः ॥ श्रीमल्लिनाथपुत्रो लक्ष्मीगर्भामृताम्बुधिसुधांशुः । भामस्य वृत्तिविद्याना (घा) म्नो भ्राता त्रिविक्रमस्सुकविः ॥ श्री वीरवीर से (नजि) नान्य प्रीय ( यदि वचः पयोनिधेः कतिचित् । प्राकृतपदरत्नानि प्रतिकृतिसुकृति भूषणाय चिनोति ॥
अनल्पार्थस्सुखोच्चारश्शाब्दस्साहित्यजीवितम् । वचः (सच) प्राकृतमेवेति मतं सूत्रानुवर्तिनाम् || प्राकृतन्तत्समन्देश्यं तद्भवञ्चेत्यतस्त्रिधा । तत्समं संस्कृतसमं ज्ञेयं संस्कृतलक्षणात् ॥ देश्यमार्षश्व रूढत्वात्स्वतन्त्रत्वाच्च भूयसा । [ वचः ( स च ) प्राकृतमेवेति मतं सूत्रानुवर्तिनाम् ।] लक्षणं (क्ष्मना) वक्ष्य (पेक्ष्य) ते तस्य संप्रदायो प (हि) बोधकै (क): ||
प्रकृतेस्संस्कृतात्साध्यमानात्सिद्धाच्च यद्भवेत् । प्राकृतस्यास्य लक्ष्यानुरोधि लक्ष्म प्रचक्ष्महे || प्राकृतपदार्थसार्थप्राप्त्यै निजसूत्रमार्गमनुजिगमिषता (म्) । वृत्तिर्यथार्थसिद्ध्यै त्रिविक्रमेणागमक्रमात्क्रियते ।। तद्भवतत्समदेश्यप्राकृतरूपाणि पश्यतां विदुषाम् । दर्पणतयेयमवनौ वृत्तिस्त्रविक्रमी जयति ॥
For Private and Personal Use Only