________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
. 1071
वन्दारुबृन्दपरिघट्टिविलोलिताक्षवृन्दारकेश्वरकिरीटतटावकीर्णैः । मन्दारपुष्पनिकरैर्विहितोपहारं
वन्दामहे जिनपतेः पदपद्मयुग्मम् ॥ यो जानाति समं समस्तमनिशं यं सूरयस्संश्रिताः येनादार्श विमुक्तिवर्त्म सुधियो यस्मै स्पृहां · कुर्वते । यस्मात्तत्त्वविनिश्चयोऽप्रतिहतं यस्यैव शास्त्रं जयो यस्मिन्विस्मयनीयपुण्यमहिमा भूयात्स वः श्रेयसे ॥ सुविवेचितपदरूपा प्रकरणचरणा प्रवेशमुखशुद्धा ।
वाङ्मयमूर्तिस्सौरी कृतिरियमधिवसतु बुधहृदयम् ।। श्रीचतुर्विंशतितीर्थकरपरमदेवेभ्यो नमः ।।
बिन्दुदुर्लिपिविसर्गवीथिकाशृङ्गपतिपदभेददूषणम् । हस्तवेगजडबुद्धिपूर्वकं क्षन्तुमर्हथ समीक्ष्य सज्जनाः ॥
श्रीजिनेश्वराय नमः ॥
गहनं व्याकरणं स्यात् तत्रापि प्रक्रिया महागहना । लिङ् लुङ् सन्यङ् कष्टं तस्मादपि चेटुरं कष्टम् ॥
For Private and Personal Use Only