________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1068
A DESCRIPTIVE CATALOGUE OF
बालाबलाजनोऽप्यस्या वृत्तेरभ्यासवृत्तितः।।
समस्तं वाङ्मयं वेत्ति वर्षेणैकेन निश्चयात् ॥ १२ ॥ तत्र सूत्रस्यादावयं मङ्गलश्लोकः-नमः श्रीवर्धमानायेत्यादि । शब्दार्थसम्बन्धा वाचकवाच्ययोग्यताः ; अथ वा आगमप्रयोजनोपायोपेयभावास्ते येन सर्वसत्त्वहितेन तत्त्वतः · प्रज्ञापिताः तस्मै श्रीमते महावीराय साक्षात्कृतसकलद्रव्याय नमस्करोमीत्यध्याहारः । इति विघ्नप्रशमनार्थमहदेवतानमस्कारं परममङ्गलमारभ्य भगवानाचार्यश्शाकटायनश्शब्दानुशासनं शास्त्रमिदं प्रारभते
धर्मार्थकाममोक्षेषु तत्त्वार्थावगतियतः ।
शब्दार्थज्ञानपूर्वेति वेद्यं व्याकरणं बुधैः । अइउण् । ऋक् । एओङ् । ऐऔच् । हयवरलञ् । अम(ङ)णनम् । जबगडदश् । झभघढधष् । खफछठथट् । चटतव् । कपम् । शषसं अःक पर् । हल् ॥ १३ ॥ इति वर्णसमाम्नायः । क्रमानुबन्धोपादानः प्रत्याहारयन् शास्त्रस्य लाघवार्थः । सामान्याश्रयणाद्दीर्घप्लुतानुनासिकग्रहणम् ।
हखदीर्घप्लुतहलो ह्येकद्विव्यर्धमात्रिकाः ।
नासिकामनुयातश्च वर्णस्स्यादनुनासिकः ।। ऋ इत्यनेन लवर्णस्यापि ग्रहणं भवति ।।
Colophon:
इति शब्दानुशासने चिन्तामणौ वृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः ।। End: ___ काण्डादक्षेत्रे ॥ ३८.-काण्डान्तात् द्विगोलुचि सत्यां तदन्तात् स्त्रियां वर्तमानात् अक्षेत्रे विषये डी भवति । द्वे काण्डे प्रमाणं यस्यास्सा
For Private and Personal Use Only