________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS,
1057
Beginning:
श्रीस्तनस्तबकन्यस्तकस्तूर्यध्यस्तकौस्तुभम् ।
निस्तुलोरस्स्थ . . . . वस्तु स्वस्तिकदस्तु नः ॥ इह खलु णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने इत्यनेनाण्यन्त. कर्मातिरिक्तकर्मरहिताण्यन्तकर्मकर्तृकानाध्यानार्थकण्यन्ताव्यवहितोत्तरवर्तिलत्वमुद्देश्यतावच्छेदकीकत्यात्मनेपदं विधीयत इति सैद्धान्तिकी पद्धतिः । तथा हि-प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषाबलाण्णेरित्यनेन ण्यन्तादिति लब्धमात्मनेपदाक्षिप्तलकारेण सम्बध्यते ।
Colophon:
इति श्रीशठमर्षणकुलतिलकस्य सकलवेदान्तविद्यानिषद्यायितहृदयकमलस्य श्रीनिवासतातार्यनन्दनस्य भरतगान्धर्वकळानुबन्धबन्धुराष्टभाषाभूषितचतुर्विधकवितानिर्वहणधूर्वहस्य पूर्वोत्तरमीमांसापारावारपारीणस्य आन्वीक्षकीव्याकरणशिक्षणदक्षिणस्य श्रीमदण्णयाचार्यदीक्षितस्य नन्दनेन तदनुजसर्वतन्त्रस्वतन्त्रश्रीनिवासार्यकरुणाकटाक्षलब्धविद्याविकासेन वेङ्कटदासेन कृते गजसूत्रवादार्थे स्वसिद्धान्तसमन्वयो नाम प्रथमपरिच्छेदः ॥
इति श्रीशठमर्षणकुलतिलकस्य . . . . . . . . वेङ्कटदासेन कृते गजसूत्रवादार्थे भट्टोजिदीक्षितमतनिरसनं नाम द्वितीयः परिच्छेदः ॥
No. 1521. धात्वर्थवादः.
DRĀTVARTHAVĀDAH. Substance, paper. Size, 10 X 48 inches. Pages, 7. Lines, 12 on a
page. Character, Dāvanāgari. Condition, injured. Appearance,
old.
Complete.
For Private and Personal Use Only