________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1035
THE SANSKRIT MANUSCRIPTS. आस्ति प्रशस्तावनिपालमौलिरत्नावलीरञ्जितपादपीठः । रेचेल्लवंशार्णवपूर्णचन्द्रः
महाबलस्सिङ्गयमाधवेन्द्रः ॥ आसीत्तस्य महामात्यः स्वामिकार्यधुरन्धरः । पोतराज इति ख्यातो राजनीतियुगन्धरः ॥ मन्त्रिचूडामणेस्तस्य सोदरस्यायमप्रभोः । गौरनार्य इति ख्यातः तनयो नयकोविदः । सोऽहं सोमकलामौलेः प्रसादाद्गतकल्मषः । प्रणम्य पिङ्गलंनाम कविपुङ्गवसम्मतम् ॥ उदाहरणरत्नानि लक्षणग्रन्थिसन्धिषु । समाकृष्य सतां भूत्यै वक्ष्ये लक्षणदीपिकाम् ॥ पात्रस्नेहदशालोकप्रदोषतिमिरापह(हा)। पदार्थदीपिका सेयं भाति लक्षणदीपिका ॥ वर्णानामुद्भवः पश्चाद्व्याक्तिसङ्ख्या ततः परम् । भूतबीजविचारश्च ततो वर्णग्रहावपि ।। अनर्हानहवेधश्च रूक्षस्निग्धविचारणा। प्रयोगनिर्णयस्तेषां शुभाशुभफलानि च ॥ वर्णाना चाभिधानानि खरूपाण्यधिदेवताः । वर्णभेदग्रहस्तत्र शुभाशुभफलानि च ॥ मित्रामित्रविचारच नक्षत्राणि च राशयः ।
End:
अत्र एक बहवो भिदादि (इ)त्यनेन प्रथमायेकैकविभक्तिक्रमण निबध्यमाना उदाहरणभेदाः कैश्चिदुत्कलिका सूचिता ।
134
For Private and Personal Use Only