________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1030 A DESCRIPTIVE CATALOGUE OY
Begins on fol. 56a. The other work herein is Śaktivādārthadipikà la
Incomplete.
Same as the last.
No. 1492. शब्दताण्डवम्.
SABDATANDAVA M. Pages, 252. Lines, 20 on a page. · Begins on fol. 105a of the MS. described under No. 1481.'
A treatise on grammar like the Siddhāntakaumudi.
Beginning:
नत्वा गुरुचरणाम्बुजमम्बां वागीश्वरीश्च वाक्सिद्ध्यै ।
अतुलकलाधरशेखरसन्तुष्ट्यै शब्दताण्डवं रचये ।। प्रत्याहारेष्वितान्न ग्रहणम् ; अनुनासिक इत्यादिनिर्देशसामर्थ्यात् । न ह्यत्र ककारे परेऽच्कार्यं दृश्यत इति यत्कौमुद्यामुक्तम् । तत्र विचार्यतेअत्र यदि णसधातोर्तुलि नासिकाशब्दो व्युत्पाद्यते तदा अच्कार्यशब्देन यदि अण्विवक्षितः । तर्हि प्रत्ययस्थादितीत्वविधिसामर्थ्यादेव यण परिहतुं शक्यः; यस्येति चेतीकारलोपस्तु न शङ्कितुं योग्यः, ककारस्याच्त्वेऽपि प्रत्ययस्य तदादित्वाभावेन स्वादित्वाभावेन भत्वस्यैवाभावात् ।
End:
कृताधिपत्यामिव साधु बन्धुतां
करेणुरारोहयते निषादिनम् । इत्यादिमहाकविप्रयोगानुकूलमनुसरतः कैयटस्योपरि प्रमादोद्भावनमेव प्रमाद इति सर्वमनवद्यम् । इति णेरणाविति सूत्रस्थकैयटोद्धारः ॥ .
For Private and Personal Use Only