________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1022
A_DESCRIPTIVE CATALOGUE OF
भेदानां बहुमार्गत्वं कर्म (ण्ये कत्र चाङ्गता। शब्दानां यतशक्तित्वः (त्वं)तस्य शाखासु दृश्यते ।। स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः । तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ तस्य र्थवादरूपाणि निश्चिता(त्य)स्वविकल्पजाम् (:)। एकार्थि(कत्वि)नां द्वैतिनाश्च प्रवादा बहुधा गताः ।। सत्या विशुद्धिस्तत्रोक्ता विधवैकपदागमा । युक्ता प्रणवरूपेण सर्वपा(वा)दाविरोधिना(नी) । विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ।। आसन्नं बामणस्तस्य तपसामुत्तमन्तपः । प्रथमञ्छन्दसामङ्गमाहुाकरणं बुधाः ॥ प्राप्तरूपविभागा या यो वाचः परमो रसा(सः) । यत्तत्पुण्यतमज्योतिस्तस्था] मार्गोऽयम()ञ्जसः ।। अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धन[]म् । तत्त्वावबोधश्शब्दानां नास्ति व्याकरणादृते । तद्दारमपवर्गस्य वाङ्मलानाञ्चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥ यथार्थजातयस्सर्वाः शब्दाकृतिनिबन्धनाः । तथैव लोके विद्यानामेषा विद्या परायणम् ।। इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्ष(मा)णानामजिह्मा राजपद्धतिः ।। अत्रातीतविपर्यासः केवलामनुपश्यति । छन्दस्यः छन्दसां योनिमात्मा छन्दोमयीन्तनुम् ॥
For Private and Personal Use Only