________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS,
1015
दोषान्वितोऽपि तनुतां मत्प्रबन्धः सतां मुदम् । सद्युक्तिभिरनुश्लिष्टकलङ्कोऽपि विधुर्यथा ॥ नमन्महीपमण्डलीकिरीटरत्नभाझरीविराजिताकृिष्णभूपतीन्द्रकृप्तसम्मितिः । तनोतु सर्वमङ्गला सदा परां मुदं सता
महीनवाग्विभूषिता मनीषिशेषशर्मणः ॥ प्रारिप्सितस्स्य ग्रन्थस्य निर्विघ्नेन परिसमाप्तये एतच्छास्त्रस्य मूलभूतचतुर्दशसूत्रोपदेष्टुत्वेन प्राचार्यत्वात् साम्बशिवस्यैतद्न्थादौ समुचितं नत्यात्मकं मङ्गलं शिष्यशिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजानीते नत्वेत्यादिना । यशसः शिष्याणामनायासज्ञानजन्यसुकृतस्य च आत्मगामित्वादात्मनेपदम् । बालानामिति ।
End:
एवमादौ प्राचीनवैयाकरणतन्त्रे वाचनिकानीत्युक्तं तन्नोचितम् अर्धमात्रालाघवेनापि पुत्रोत्सवं मन्यते ; किम्पुनर्बहूनां वचनानां ज्ञापकेन सद्महे सिद्धे तेषामानुपूर्वीरूपेण अपाठेऽपि लाघवमिति च सूचितमिति शिवम् ॥
Colophon:
इति महीसूरपुराधीशकृष्णराजेन्द्रभूपालसभापण्डिताध्यक्षभूतस्य समस्तव्याकरणविद्यासर्वकषज्ञाननिधेः काव्यनाटकालङ्कारविद्याद्यनेकशास्त्रविदः सर्वश्लाघ्यकवित्वधुरीणस्य काशीशेषशास्त्रिणः कृतिः सैषा परिभाषेन्दुशेखरव्याख्या सर्वमङ्गलाख्या कृतिः समाप्तिमगमत् ॥
मन्मथेऽब्दे चैत्रकृष्णत्रयोदश्यां भृगोर्दिने । लिखिता श्रीनिवासेन सर्वमङ्गलसंज्ञिका ॥
For Private and Personal Use Only