________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1012
A DESCRIPTIVE CATALOGUE OY
Fragmentary. Begins on fol. 81a of the MS. described under No. 1465.
This commentary is by Lakşmințsimha.
Beginning:
प्रत्यूहाम्बुधिसीमा यत्पदपांसुर्बभूव देवस(स्स)। शुण्डालोज्ज्वलतुण्डः श्रेयो भूयो विधत्तान्नः । अव्याजकरुणासिन्धुर्वटशाखितटाश्रयः । अस्मिन्निबन्धनिर्माणे साहाय्यं कुरुतां मम ॥ यशैषिकं वचोऽशेष प्रेम्णा मामध्यजीगपत् । प्राणनाथाभिधायाथ तस्मै सद्गुरवे नमः ॥ बहवः कृतयो महत्प्रणीताः प्रचरन्त्येव कृतिर्ममापि काचित् । समुदञ्जतु शारदे विधावुदिते नोदयते न तारकापि ।। कुत्सर(त्सित)मलिनमनोभिर्यदि कृतिरेषा मनो न नीयेत । श्रेयस्तत्कुरु जायापरजायालोलुपोन्धेव(?) ॥ लक्ष्मीनृसिंहनामाहं परिभाषेन्दुशेखरे।
करिष्ये त्रिशिखाभिख्यां व्याख्यां संख्यावतां मुदे ।। विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नातिनत्वेति । स्वावधिकोत्कृष्टत्वप्रकारकज्ञानजनककरशिरस्संयोगव्यापारो हि नतिः । तत्रोत्कृष्टत्वप्रकारकज्ञानं गुणवत्वपूरकज्ञानाधीनमिति गुणवत्वेन प्रस्तौति । बृहन्ते वर्धन्ते आनन्दादयो यत्रेति बाहुलकादधिकरणे मन् । साम्बत्वं पतिकात्मक(?)विजातीयानन्दप्रतिपादनाय । तेन च वन्दारुवान्छासमधिकफलप्रदातृता सूचिता । कृत्याश्रयत्वव्यावहारिकत्वरूपोपाधिकृतात्मभेदमाश्रित्य नागेश इति नामग्रहणम् । आत्मनाम गुरोर्नामेति निषेधावतारः(न) स्मृतौ नामग्रहणस्य नामोच्चारणरूपत्वेन प्रकृते तदुल्लेखेन तदग्रहणाच्या(द्वा) । कुरुत इति । यद्यपीह सुखबोधरूपक्रियाफलस्य परगामितया
For Private and Personal Use Only