SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1010 A DESCRIPTIVE CATALOGUE OF आर्या मात्सर्यमुत्सृज्य समर्यादमिमां कृतिम् । पश्यतां पश्यताह्लादजननी जननीं धियः ।। हंसस्सारं यथाध(द)त्ते सारासारविवेकतः । त्यक्तासारं तथा सारमङ्गीकुरुत धीजनाः ॥ ग्रन्थसमाप्त्यादिप्रतिबन्धकविघ्नौघप्रशमनाय प्रकृतग्रन्थादौ नमस्कार्यस्येष्टदेवतानमस्काररूपं मङ्गलादीनि हि शास्त्राणि प्रथन्ते इत्यादिवृद्धिसंज्ञासूत्रांदिस्थभाष्यात्, ग्रन्थादौ ग्रन्थमध्ये च ग्रन्थान्ते च पुनः पुनरिति शिष्टाचारबोधितस्मृतेश्चावश्यकर्तव्यतासूचितं मङ्गलमाचरन् शिष्यशिक्षार्थ निबध्नाति साम्बशिवमिति । अम्बा जगन्माता पार्वती । तत्सहितं, शिवम्--शेते अस्मिन् जगदिति अधिकरणव्युत्पत्त्या जगदाधारमित्यर्थः । सर्वनिघृष्वरिष्वलप्वशिवपद्प्रहेष्वा अतन्त्र इत्युणादिसूत्रेण शीङो हस्वत्वं वनिप्रत्ययो निपातनात् । यद्वा शिवं मङ्गलमस्यास्तीति शिवः । अर्श आद्यच् । साम्बेति विशेषणन्तु तदवियोगसूचनाय । ननु गुणशून्यनमने किं फलमित्याशङ्कयाह ब्रह्मेति । End: तच्च न युक्तम् । अर्धमात्रालाधवेन पुत्रोत्सवतुल्यहर्षोत्पादात् इत्यपि सूचनं ग्रन्थकृदाकूतं विद्वन्मान्या विदांकुर्वन्त्वि(ति) सकलार्थसिद्धिः। परिभाषारसास्वादबद्धाध(द)रधियामुना । भीमेन रचिता सेयं परिभाषार्थमअरी ॥ Colophon: श्रीमदलगलेकोपनामकमाधवाचार्यतनयभीमाचार्यप्रणीता परिभाषार्थमञ्जरी समाप्ता॥ तैलाद्रक्षेजलाद्रक्षेद्रक्षेच्छिथिलबन्धनात् । मूर्खहस्ते न दातव्यमेवं वदति पुस्तकम् ।। For Private and Personal Use Only
SR No.020186
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 03
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1906
Total Pages355
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy