SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1008 A DESCRIPTIVE CATALOGUE OF शिष्यशिक्षायै प्रसङ्गतोऽन्येषां मङ्गलाय च स्वोपास्यदेवतानतिम् उपनिबध्नन् चिकीर्षितं प्रतिजानीते नत्वेति । अम्बया मायया सहितं, शेते यस्मिन् जगदिति व्युत्पत्त्या जगल्लयाधिकरणं,बृंहते वर्धयति पशा(प्रजा)मिमामित्यन्तर्भावितण्यर्थात् प्रजावर्धकमिति पदत्रयेण सृष्ट्यादिकर्तृत्वं बोधितम् । यद्वा निराकारस्य ब्रह्मणो नत्याद्यसंभवेन साम्बशिवमिति । तथा च सृष्ट्याद्यर्थ तेन साभ्बशिवाकारत्वमेव कल्पितम् । तेन. च कल्पितेन च शिवकारणेन खोपयोगाय विष्ण्वाद्यकारणकल्पनमिति शिवस्वरूपेण प्राधान्यं बोधितम् । नागेश इति । यद्यप्यात्मनामेत्युक्तेः स्वनामग्रहणं स्वस्य निषिद्धम् ; तथापि प्रत्यभिवादसूत्रस्थभाष्यकैयटप्रामाण्येन धर्मशास्त्रप्रामाण्येन च सामान्यनिषेधस्य वैधनामग्रहणातिरिक्तविषयकत्वकल्पनात्, यागीयहिंसाविधिना न हिंस्यादिति सामान्यनिषेधस्य वेदबोधितस्मृत्यनुभवद्वारा यागातिरिक्तविषयकल्पनवत्, स्वकीर्त्यनुवृत्तये स्वनामग्रहणस्य शिष्टाचारानुगृहीतस्य तद्बोधकस्मृत्यनुभवद्वारा वैधत्वं प्रकृ. तेऽप्यस्त्येवेति न दोषः । यद्वा उक्तनिषेधस्य पारिभाषिकनामविषयकत्वं, न यौगिकनामविषयकत्वं, रूढेर्बलवत्वात् । अत एव गोनर्दीय आहेति भाष्यकारस्य यौगिकस्वनामग्रहणं सङ्गच्छते । प्रकते नाग : ईशः प्रवर्तको यस्य स नागेश इति न निषेधप्रवृत्तिः । तेन भाष्यस्थितसिद्धान्तानां विषयि(य)ता तज्जिज्ञासूनामधिकारितेति सूचितम् । यहा मया क्रियत इति अनुवृत्त्या नागेशः कुरुत इति तटस्थेनोक्तयाहङ्कतिनिरासः । एवञ्च सप्रयोजनं नामग्रहणमिति न निषेधप्रवृत्तिः । अह. ऋतिनिरासरूपफलस्यात्मगामित्वात् कुरुत इत्यात्मनेपदोपपत्तिरिति सम्यक् । End: ___ अजादिसंज्ञाबोध्यलक्ष्यस्थि(त)ऊनशब्दापेक्षयण आर्धधातुकसंज्ञाशब्दबोध्यनशब्दसापेक्षगुणादन्तरङ्गत्वाभावात्तद्धटकनशब्दमात्रापेक्षत्वेन गुणस्यैवान्तरङ्गत्वाच्च गुणापेक्षया ऊठोऽन्तरङ्गत्वप्रतिपादकः कैयटश्चिन्त्य For Private and Personal Use Only
SR No.020186
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 03
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1906
Total Pages355
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy