________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
996
A DESCRIPTIVE CATALOGUE OF
From Samiisa to the end of Purvardha ; complete.
A commentary on Siddhantakaumudi loy Taksminrsimha, son of Kondulhattopādhisiya of Mahidbara family, and pupil of Nārāyaṇa and Lakşminisimha.
First leaf lost. Beginning : ___ अव्ययमित्येवं प्रथमान्ततया निर्दिष्टत्वादुपसर्जनसंज्ञायामुपसर्जनं पूर्वमिति पूनिपाते सुपो धात्व(त्वि)ति सुपो लुकि दिशाशब्दस्यैकविभक्ति चेत्युपसर्जनत्वेन गोस्त्रियोरिति ह्रस्वे अपदिशेत्यस्मादुत्पन्नस्य सुपो नाव्ययीभावादिति लुनिषेधेनामादेशे अमि पूर्व इति पूर्वरूपे च रूपमिति भावः । तृतीयेति। न चाव्ययीभावस्य अव्ययत्वेन सङ्ख्याकारकशून्यत्वात् कथं तृतीयाविभक्तिरिति वाच्यम् ; एकवचनमुत्सर्ग(त): करिष्यत इति भाष्यानुरोधेन संख्याकारके अनपेक्ष्याप्येकवचनानामुत्पत्तिसंभवात् । असत्त्वार्थकानामव्ययानां संख्याद्ययोगित्वेऽप्युन्मत्तगङ्गं पार यो(रे)गङ्गमित्यादिवत् सत्त्वार्थकानामपदिशादिशब्दानां संख्यादियोगितया विभक्तयुत्पत्तौ न विरोध इत्यप्याहुः । End: - द्विवचन इति । कृच्छ्रे प्रसक्तिसंपादनपूर्वकम् अकृच्छ्रत्वस्य
गम्यत्वं स्फोरयति अतिप्रियम(पीति) । यथास्व इति यथास्वशब्दार्थे यथायथमित्येतत् भवतीति सूत्रार्थन्दर्शयति । यथास्वमिति द्विवचने रूपन्दर्शयति । आत्मार्थकः आत्मीयार्थकश्चेति द्विविधोऽपि स्वशब्द इह गृह्यत इत्याशयेनाह ययोरा(योऽयमा)त्मेति । यथायथं ज्ञातेति । अत्र ज्ञातेत्यस्य तृन्नन्तत्वान्न लोकेति षष्ठीनिषेध इति बोध्यम् ॥ इति द्विरुक्तिप्रक्रिया ॥ Colophon: ___ इति श्रीमन्महीधरकुलजलधिकौस्तुभंकोण्डुभट्टमहोपाध्यायतनूभवेन श्रीमन्नारायणेन्द्रगुरुचरणकटाक्षनिक्षेपकोशगृहायमाणेन लक्ष्मीनृसिंहचरणार
For Private and Personal Use Only