________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
655
655
No. 918. नपरतपरं सव्याख्यानम्. NAPARATAPARAM WITH COMMENTARY. Pages, 18. Lines, 20 on a page.
Begins on fol 24a of the MS. described under No. 8553 Complete.
A work of the same kind as the above; it is by Saurisūri, and has a commentary by himself; the words are arranged in alphabetical order.
Baginning:
नत्वा श्रीनायकं देवं सर्वसम्पत्करं परम् ।
शौरिसूरिः प्रवक्ष्यामि नवं नव(त)परं पर(द)म् ॥ सकलकार्यनिर्वृत्तिहेतुं विनायकं पूर्व नमस्कृत्य नपरलक्षणं करिप्यामीत्युक्ता इदानीं प्राचीनग्रन्थस्य दोषबाहुल्यं दर्शयन् आरभ्यमाणस्य गुणमु(प)पादयन्नाह---
दुर्ज्ञानं दुष्करं यत्तु सापेक्षं चाक्रमं तथा ।
तत् परित्यज्य सव्याख्यमकारादि च पुष्कलम् ।। दुर्ज्ञानं ज्ञातुमशक्यम् अन्यमभिप्रेत्यान्योपदेशात् दुष्पठं पठितुमशक्यं ग्रन्थरचनासामर्थ्यात् सापेक्षम् अपूर्णोपदेशात् अक्रमम् अकारादिवर्णक्रमरहितं तत् परित्यज्य निराकृत्य सव्याख्यं व्याख्यासहितम् अकारादि अकारादि. वर्णक्रमेण रचितं पुष्कलं पूर्णम् ; एतदुक्तं भवति पुरातनस्य दुर्ज्ञानत्वादिबहुदोषदुष्टत्वात् तन्निराकृत्य तैत्तिरीयवेदाध्यापकाध्येतॄणां सुशाखावगमनार्थ सव्याख्यं समासव्यासरूपेण प्रतिषिध्योदाहरे । प्रत्युदाहरणं च पुष्कलं पूर्ण सुज्ञानं लक्षणान्तरं करिष्यामीत्यत्र सम्बध्यते । लक्षणं नारम्भणीयमित्येव चोदयन्तं प्रत्यारम्भणीयमुपपादयितुमाह नारम्भणीयमिति श्लोकद्वयेन ।
For Private and Personal Use Only