________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SAN KRIT JANUS RIITS.
645
तथा च ब्राह्मणम्--यो ह वा अविदितार्षयच्छ दादैवत(विनियोग)ब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणु वर्छति गर्त वा पद्यते प्र वा मीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति। अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति श्रेयान् भवति । अयातयामा यस्य छन्दांसि भवति। तस्मादेतानि मन्त्रे मन्त्रे विद्यादिति । स्मर्यते च..
अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च ।
योऽध्यापयेज्जपेद्विद्वान् पापीयान् जायते तु सः ॥ तत इदमशेषच्छन्दोबृन्दसन्दीपनं शास्त्रमधिक्रियते धीश्रीस्त्री इति संज्ञा निर्दिश्यते धी-श्री-स्त्रीमिति । गुरुवर्णत्रयं संज्ञि एतच्च सर्वगुरोर्वर्णत्रयस्योपसङ्ग्रहण योदाहरणम् । तेन धरित्यादेर्वाच्यार्थो न गृह्यते प्रकृतानुपयोगाच्च । तेनेदमुक्तं सर्वगुरोत्रिकस्य वर्णगणस्य म इति संज्ञा । End: तथा हि
प्रस्ताराद्याः पादे समावधयेऽर्थे समाविधये(वा) ।
पादेषु चतुर्षु कृताः समार्थसमावेषमविधये स्युः ।। द्विगुणे छन्दसि ये प्रत्यया भवन्ति पादे इष्टस्यार्थस्य च ते पादचतु. प्कस्य च ज्ञेयाश्छन्दसि तद्यथा----
षडरे यः प्रस्तारः स व्यक्षरस्य सोऽर्थे स्यात् । यो द्वादशाक्षरे सौ कृत्स्नस्य व्यक्षरस्य स्यात् ॥ प्रस्तारेऽक्षरसङ्ख्या छन्दोऽक्षरगुणितवृत्तसङ्ख्या स्यात् । गुरुलघुसङ्ख्याद्धोरा मात्रासङ्ख्या तु साध्या ॥
For Private and Personal Use Only