SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 633 श्रोतृबुद्धिमनस्समाधानार्थ प्रकरणे प्रतिपाद्यमर्थ दर्शयति इह कालो निरूप्यत इति। अनेन विषयो दर्शितः। निष्प्रयोजने प्रकरणे प्रेक्षावत्प्रवृत्त्यनुपपत्तेस्तसिद्धयर्थ खग्रन्थस्य प्रयोजनं दर्शयति वेदतत्त्वावबोधार्थमिति । वेदस्य तत्त्वस्यावबोधः वेदतत्त्वावबोधः तदर्थ वेदतत्त्वावबोधार्थम् । अनेनार्थज्ञानकामिनोऽधिकारो दर्शितः । खग्रन्थस्य मूलन्दर्शयति प्रातिशाख्यादिशास्त्राणीति । प्रतिशाखासंबन्धि प्रातिशाख्यम् End: ___ एक एव खरो येषां ते एकखराः तेषां पदानां योऽयं चादेः पूर्वपदान्तवद्भावः प्रादेः परपदादिवद्भावश्चोक्तः तदुभयं चादीनां प्रादीनामेकखरत्व एव भवति । बहुखरत्वे प्रपरापसमन्ववनिर्दाङ्न्यध्यप्यतिसूदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र ॥ इति प्रादयो विंशतिः चादयोऽनन्ताः ।। Colophon: इति श्रीमुक्तीश्वराचार्यकृतौ कालनिर्णयदीपिका समाप्ता ।। Beginning: आदावनुक्ते स्रवति परस्ताच्च विशीर्यते। तस्मात्समुच्चरेद्ब्रह्म रक्षायै छन्दसां स्फुटम् ॥ ग्रामे मध्यन्दिने चैव तस्य कतिधा भवेत् । एक द्वे पञ्चकं त्वेकमवसान इति क्रमात् ।। वेदेन सह यद्वाक्यमुदात्तान्तं प्रकीर्तितम् । यत्र भिन्नत्वमानोति स्वरितं चाधिगच्छति ॥ End: प्र, परा, अप, सम् , अनु, अव, निः, दुः, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप, एते प्रादयो विंशतिः । चादयोऽनन्ता इति । For Private and Personal Use Only
SR No.020185
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1905
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy