________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TILL SANSKRIT VANUSCRIPTS.
623 पार्थश्चतुर्विधः---धर्मोऽर्थः कामो मोक्षश्चेति । तदप्युक्तभृग्विधाने पवमाने नाभानेदिष्ठहृद्येषु पुरुषसूक्तादिषु । वेदाभ्यासो हि पञ्चधा विहितः—अध्ययनं विचारोऽभ्यसनं जपोऽध्यापनमिति । तथा च स्मर्यते
वेदखीकरणं पूर्व विचारोऽभ्यसनञ्जपः ।
तदानश्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चथा ॥ इति तदपि वक्ष्यति ---एकः श्रोता दक्षिणतो निषीदतीत्यध्ययनम् ; अभ्यासार्थे (द्रु)तां वृत्तिमित्यभ्यसनम् ; प्रयोगार्थे तु मध्यमामिति जपादिः; तदानचैव शिष्येभ्य इत्यध्यापनम् ; पारायणं वर्तये(त्)ब्रह्मचारीत्येवमादि च । तस्मादधीतवेदस्य सति सामर्थे सम्पूर्णफलापेक्षया विचारः प्राप्तः स विचारो द्विविधः अर्थतो लक्षणतश्चेति । तथा चोक्तम्
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति यो-र्थम् । योऽर्थज्ञ इत्सकलं भद्रनक्षते (स) नाकमेति ज्ञानविधूतपाप्मेति ।। तथा च
लक्षणं यो न वेत्त्यक्षु न स कर्मफलं लभेत् ।
लक्षणजो हि मन्त्राणां सकलं भद्रमनुते ।। इति त मात्तावत्पूर्व लसणामुच्यते लक्षणपूर्वकं हि अर्थपरिज्ञानम् । तथा चोक्तम्----
खरो वर्णोऽझरं मन्त्रास्तत्त्रयोगार्थ एव च ।
मन्त्रं जिज्ञासमानेन वदितव्यं पदे पदे ।। इति । सर्वशास्त्रादौ नमस्कारं कुर्वन्त्याचार्या यथा स्वयंभुवे ब्रह्मणे विश्वगोप्त्र इति, सवाानं विश्वसृजं स्वयम्भुवमिति च । पितृदेवऋषिसङ्केभ्य इति । अतोत्रापि शौनक आचार्यो भगवान् शास्त्रादौ नमस्कार प्रतिज्ञाच (च) काराविनार्थ -----
For Private and Personal Use Only