________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
903
गृह्याणि भाष्याणि बहूनि बह्वीः स्मृतीस्समीक्ष्य व्यधषी(धित)स्फुटार्थम् । प्रश्नं न तळ्याकरणेऽतियत्नो व्याख्यामिषात्साक्षिवचांसि वक्ष्ये ॥ क्वचिदत्र हि सूत्रार्थो वचनैः प्रतिपाद्यते । वचनार्थः क्वचित्सूत्रैरुभयार्थ क्वचिन्मया ॥ पितृमेधेषु सारोऽयं प्रश्नस्सारार्थनिर्णये ।
यत्सुधीलोचनं ख्यातं तद्व्याख्यानं विरच्यते ॥ अथातोऽवभृथेष्टिं वक्ष्यामः । अत्र मङ्गळाद्यनेकार्थपरत्वेऽप्यथशब्दस्यातश्शब्दशिरस्कत्वादानन्तर्यमेवार्थः ।
End:
" श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं मासि संवत्सराहते ॥" इति हारीतः ॥ निर्गत(गद)व्याख्यानमेतत् ।। द्विरुक्तिः समाप्तिं द्योतयति ॥ इति पञ्चमखण्डः ॥ पञ्चमपटलं समाप्तम् ॥
Colophon: __इति हारीतकुलतिलकस्य सरस्वतीवल्लभापरनामधेयस्य श्रीरङ्गार्यपुत्रस्य यजुर्निधे (:) श्रीवेङ्क(ट)नाथस्य वैदिकसार्वभौमस्य कृतिषु पितृमेधसारप्रश्नव्याख्यानं समाप्तम् ॥
वेदोदितं वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन्यथाशक्ति : प्राप्नोमि(ति)परमां गतिम् ॥
For Private and Personal Use Only